Saturday, May 7, 2011

कनकधारा स्तोत्र


      || श्री कनकधारास्तोत्रम् ॥
      अङ्गं हरेः पुलकभूषणमाश्रयन्ती
      भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
      अङ्गीकृताखिलविभूतिरपाङ्गलीला
      माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः ॥ १॥
      मुग्धा मुहुर्विदधती वदने मुरारेः
      प्रेमत्रपाप्रणिहितानि गतागतानि ।
      माला दृशोर्मधुकरीव महोत्पले या
      सा मे श्रियं दिशतु सागरसंभवायाः ॥ २॥
      विश्वामरेन्द्रपदविभ्रमदानदक्षं
      आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
      ईषन्निषीदतु मयि क्षणमीक्षणार्धम्
      इन्दीवरोदरसहोदरमिन्दिरायाः ॥ 3॥
      आमीलिताक्षमधिगम्य मुदा मुकुन्दं
      आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
      आकेकरस्थितकनीनिकपक्ष्मनेत्रं
      भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ 4॥
      बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
      हारावलीव हरिनीलमयी विभाति ।
      कामप्रदा भगवतोऽपि कटाक्षमाला
      कल्याणमावहतु मे कमलालयायाः ॥ 5॥
      कालाम्बुदालिललितोरसि कैटभारेः
      धाराधरे स्फुरति या तडिदङ्गनेव ।
      मातुस्समस्तजगतां महनीयमूर्तिः
      भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ 6॥
      प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
      माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
      मय्यापतेत्तदिह मन्थरमीक्षणार्धं
      मन्दालसं च मकरालयकन्यकायाः ॥ 7॥
      दद्याद्दयानुपवनो द्रविणाम्बुधारां
      अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
      दुष्कर्मधर्ममपनीय चिराय दूरं
      नारायणप्रणयिनीनयनाम्बुवाहः ॥ 8॥
      इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
      दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
      दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
      पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ 9॥
      गीर्देवतेति गरुडध्वजसुन्दरीति
      शाकम्भरीति शशिशेखरवल्लभेति ।
      सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
      तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥
      श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
      रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
      शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
      पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११॥
      नमोऽस्तु नालीकनिभाननायै
      नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
      नमोऽस्तु सोमामृतसोदरायै
      नमोऽस्तु नारायणवल्लभायै ॥ १२॥
      सम्पत्कराणि सकलेन्द्रियनन्दनानि
      साम्राज्यदानविभवानि सरोरुहाक्षि ।
      त्वद्वन्दनानि दुरितोद्धरणोद्यतानि
      मामेव मातरनिशं कलयन्तु मान्ये ॥ 13॥
      यत्कटाक्षसमुपासनाविधिः
      सेवकस्य सकलार्थसंपदः ।
      संतनोति वचनाङ्गमानसैः
      त्वां मुरारिहृदयेश्वरीं भजे ॥ 14॥
      सरसिजनिलये सरोजहस्ते
      धवलतमांशुकगन्धमाल्यशोभे ।
      भगवति हरिवल्लभे मनोज्ञे
      त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ 15॥
      दिग् हस्तिभिः कनककुंभमुखावसृष्ट-
      स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
      प्रातर्नमामि जगतां जननीमशेष-
      लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ 16॥
      कमले कमलाक्षवल्लभे त्वं
      करुणापूरतरङ्गितैरपाङ्गैः ।
      अवलोकय मामकिञ्चनानां
      प्रथमं पात्रमकृत्रिमं दयायाः ॥ 17॥
      स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
      त्रयीमयीं त्रिभुवनमातरं रमाम् ।
      गुणाधिका गुरुतरभाग्यभागिनो
      भवन्ति ते भुवि बुधभाविताशयाः ॥ 18॥
      || इति श्रीमच्छङ्कराचार्यकृत
      श्री कनकधारास्तोत्रं संपूर्णम् ॥