श्रीमद्भागतान्तर्गत
गजेन्द्रकृत भगवानको स्तवन
गजेन्द्रमोक्ष
श्री शुक उवाच
एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।
जजाप परमं जाप्यं प्राग्जन्मन्यनुषिक्षितम् ।। १ ।।
गजेन्द्र उवाच
ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभिधीमहि ।। २।।
यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योsस्मात्परस्माञ्च परस्तं प्रपद्ये स्वयम्भुवम् ।। ३।।
य: स्वात्मनीदं निजमाययार्पितं
क्वचिद् विभातं क्व च तत् तिरोहितम् ।
अविद्धदृक् साक्ष्युभयं तदीक्षते
स आत्ममूलोअवतु मां परात्पर: ।।४।।
कालेन पञ्चत्वमितेषु कृत्स्नशो
लोकेषु पालेषु च सर्वहेतुषु ।
तमस्तदाssसीद् गहनं गभीरं
यस्तस्य पारेsभिविराजते विभु: ।।५।।
न यस्य देवा ऋषय: पदं विदु-
र्जन्तु: पुन: कोsर्हति गन्तुमीरितुम् ।
यथा नटस्याकृतिभिर्विचेष्टतो
दुरत्ययानुक्रमण: स मावतु ।।६।।
दिदृक्षवो यस्य पदं सुमङ्गलं
विमुक्तसङ्गा मुनय: सुसाधव: ।
चरन्त्यलोकव्रतमव्रणं वने
भूतात्मभूता: सुहृद: स मे गति: ।।७।।
न विद्यते यस्य च जन्म कर्म वा
न नामरूपे गुणदोष एव वा ।
तथापि लोकाप्ययसंभवाय य:
स्वमायया तान्यनुकालमृच्छति ।।८।।
तस्मै नम: परेशाय ब्रह्मणअनन्तशक्तये ।
अरूपायोरूरूपाय नम आश्चर्यकर्मणे ।।९।।
नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ।।१०।।
सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्चिता ।
नम:कैवल्यनाथाय निर्वाणसुखसंविदे ।।११।।
नम: शान्ताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ।।१२।।
क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरूषायात्ममूलाय मूलप्रकृतये नम: ।।१३।।
सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नम: ।।१४।।
नमो नमस्तेsखिलकारणाय
निष्कारणायाद्भुतकारणाय ।
सर्वागमाम्नायमहार्णवाय
नमोsपवर्गाय परायणाय ।।१५।।
गुणारणिच्छन्नचिदूष्मपाय
तत्क्षोभविस्फ़ूर्जितमानसाय ।
नैष्कर्म्यभावेन विवर्जितागम-
स्वयंप्रकाशाय नमस्करोमि ।।१६।।
मादृक्प्रपन्नपशुपाशविमोक्षणाय
मुक्ताय भूरिकरूणाय नमो sलयाय ।
स्वांशेन सर्वतनुभृन्मनसि प्रतीत-
प्रत्यग्दृशे भगवते बृहते नमस्ते ।।१७।।
आत्मात्मजाप्तगृहवित्तजनेषु सक्तै-
र्दुष्प्रापणाय गुणसङ्ग विवर्जिताय ।
मुक्तात्मभि: स्वहृदये परिभाविताय
ज्ञानात्मने भगवते नम ईश्वराय ।।१८।।
यं धर्मकामार्थविमुक्तकामा
भजन्त इष्टां गतिमाप्नुवन्ति ।
किं त्वाशिषो रात्यपि देहमव्ययं
करोतु मेsदभ्रदयो विमोक्षणम् ।।१९।।
एकान्तिनो यस्य न कंचनार्थं
वान्छन्ति ये वै भगवत्प्रपन्ना: ।
अत्यत्द्भुतं तन्चरितं सुमङ्गलं
गायन्त आनन्दसमुद्रमग्ना: ।।२०।।
तमक्षरं ब्रह्म परं परेश-
मब्यक्तमाध्यात्मिकयोगगम्यं ।
अतीन्द्रियम् सूक्ष्ममिवातिदूर-
मनन्तमाद्यं परिपूर्णमिडे ।।२१।।
यस्य ब्रह्मादयो देवा वेदा लोकाश्चराचरा: ।
नामरूपविभेदेन फ़ल्ग्व्या च कलया कृता: ।।२२।।
यथार्चिषोअग्ने: सवितुर्गभस्तयो
निर्यान्ति संयान्त्त्यसकृत् स्वरोचिष: ।
तथा यतोsयं गुणसंप्रवाहो
बुद्धिर्मन: खानि शरीरसर्गा:।।२३।।
स वै न देवासुरमर्त्यतिर्यङ्
न स्त्री न षण्ढो न पुमान् न जन्तु:।
नायं गुण: कर्म न सन्न चासन्
निषेधशेषो जयतादशेष: ।।२४।।
जिजीविषे नाहमिहामुया कि-
मन्तर्बहिश्चावृतयेभयोन्या ।
इच्छामि कालेन न यस्य विप्लव-
स्तस्यात्मलोकावरणस्य मोक्षम् ।।२५।।
सोsहं विश्वसृजं विश्वमविश्वं विश्ववेदसं ।
विश्वात्मानामाजम् ब्रह्म प्रणतोsस्मि परं पदम् ।।२६।।
योगरन्धितकर्माणो हृदि योगविभाविते ।
योगिनो यं प्रपश्यन्ति योगेशं तं नतोsस्म्यहम् ।।२७।।
नमो नमस्तुभ्यमसह्यवेग-
शक्तित्रयायाखिलधीगुणाय ।
प्रपन्नपालाय दुरन्तशक्तये
कदिन्द्रियाणामनवाप्यवर्त्मने ।।२८।।
नायं वेद स्वमात्मानं यच्छक्त्याहंधिया हतम् ।
तं दुरत्ययमाहात्म्यम् भगवन्तमितोsस्म्यहं ।।२९।।
श्री शुक उवाच
एवं गजेन्द्र मुपवर्णितनिर्विशेषं
ब्रम्हादयो विविधलिङ्गभिदाभिमाना: ।
नैते यदोपससृपुर्निखिलात्मकत्वात्
तत्राखिलामरमयो हरिराविरासीत् ।। ३०।।
तं तद्वदार्त्तमुपलभ्य जगन्निवास:
स्तोत्रं निशम्य दिविजै: सह संस्तुवद्भि: ।
छन्दो मयेन गरुडेन समुह्यमान-
श्चक्रायुधोsभ्यगमदाशु यतो गजेन्द्र : ।। ३१।।
सोsन्त: सरस्युरुबलेन गृहीत आर्त्तो
दृष्ट्वा गरुत्मति हरिं ख उपात्तचक्रं ।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रा-
न्नारायणाखिलगुरो भगवन् नमस्ते ।। ३२।।
तं वीक्ष्य पीडितमज: सहसावतीर्य
सग्राहमाशु सरस: कृपयोज्जहार ।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रं
संपश्यतां हरिरमूमुचदुस्त्रियाणाम् ।। ३३।।
No comments:
Post a Comment