|| श्री कनकधारास्तोत्रम् ॥अङ्गं हरेः पुलकभूषणमाश्रयन्तीभृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।अङ्गीकृताखिलविभूतिरपाङ्गलीलामाङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः ॥ १॥
मुग्धा मुहुर्विदधती वदने मुरारेःप्रेमत्रपाप्रणिहितानि गतागतानि ।माला दृशोर्मधुकरीव महोत्पले यासा मे श्रियं दिशतु सागरसंभवायाः ॥ २॥
विश्वामरेन्द्रपदविभ्रमदानदक्षंआनन्दहेतुरधिकं मुरविद्विषोऽपि ।ईषन्निषीदतु मयि क्षणमीक्षणार्धम्इन्दीवरोदरसहोदरमिन्दिरायाः ॥ 3॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दंआनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।आकेकरस्थितकनीनिकपक्ष्मनेत्रंभूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ 4॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे याहारावलीव हरिनीलमयी विभाति ।कामप्रदा भगवतोऽपि कटाक्षमालाकल्याणमावहतु मे कमलालयायाः ॥ 5॥
कालाम्बुदालिललितोरसि कैटभारेःधाराधरे स्फुरति या तडिदङ्गनेव ।मातुस्समस्तजगतां महनीयमूर्तिःभद्राणि मे दिशतु भार्गवनन्दनायाः ॥ 6॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।मय्यापतेत्तदिह मन्थरमीक्षणार्धंमन्दालसं च मकरालयकन्यकायाः ॥ 7॥
दद्याद्दयानुपवनो द्रविणाम्बुधारांअस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।दुष्कर्मधर्ममपनीय चिराय दूरंनारायणप्रणयिनीनयनाम्बुवाहः ॥ 8॥
इष्टाविशिष्टमतयोऽपि यया दयार्द्र-दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टांपुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ 9॥
गीर्देवतेति गरुडध्वजसुन्दरीतिशाकम्भरीति शशिशेखरवल्लभेति ।सृष्टिस्थितिप्रलयकेलिषु संस्थितायैतस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यैरत्यै नमोऽस्तु रमणीयगुणार्णवायै ।शक्त्यै नमोऽस्तु शतपत्रनिकेतनायैपुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११॥
नमोऽस्तु नालीकनिभाननायैनमोऽस्तु दुग्धोदधिजन्मभूम्यै ।नमोऽस्तु सोमामृतसोदरायैनमोऽस्तु नारायणवल्लभायै ॥ १२॥
सम्पत्कराणि सकलेन्द्रियनन्दनानिसाम्राज्यदानविभवानि सरोरुहाक्षि ।त्वद्वन्दनानि दुरितोद्धरणोद्यतानिमामेव मातरनिशं कलयन्तु मान्ये ॥ 13॥
यत्कटाक्षसमुपासनाविधिःसेवकस्य सकलार्थसंपदः ।संतनोति वचनाङ्गमानसैःत्वां मुरारिहृदयेश्वरीं भजे ॥ 14॥
सरसिजनिलये सरोजहस्तेधवलतमांशुकगन्धमाल्यशोभे ।भगवति हरिवल्लभे मनोज्ञेत्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ 15॥
दिग् हस्तिभिः कनककुंभमुखावसृष्ट-स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।प्रातर्नमामि जगतां जननीमशेष-लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ 16॥
कमले कमलाक्षवल्लभे त्वंकरुणापूरतरङ्गितैरपाङ्गैः ।अवलोकय मामकिञ्चनानांप्रथमं पात्रमकृत्रिमं दयायाः ॥ 17॥
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहंत्रयीमयीं त्रिभुवनमातरं रमाम् ।गुणाधिका गुरुतरभाग्यभागिनोभवन्ति ते भुवि बुधभाविताशयाः ॥ 18॥
|| इति श्रीमच्छङ्कराचार्यकृतश्री कनकधारास्तोत्रं संपूर्णम् ॥
|| श्री कनकधारास्तोत्रम् ॥
अङ्गं हरेः पुलकभूषणमाश्रयन्ती
भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।
अङ्गीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदाऽस्तु मम मङ्गलदेवतायाः ॥ १॥
मुग्धा मुहुर्विदधती वदने मुरारेः
प्रेमत्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसंभवायाः ॥ २॥
विश्वामरेन्द्रपदविभ्रमदानदक्षं
आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईषन्निषीदतु मयि क्षणमीक्षणार्धम्
इन्दीवरोदरसहोदरमिन्दिरायाः ॥ 3॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दं
आनन्दकन्दमनिमेषमनङ्गतन्त्रम् ।
आकेकरस्थितकनीनिकपक्ष्मनेत्रं
भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ 4॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कटाक्षमाला
कल्याणमावहतु मे कमलालयायाः ॥ 5॥
कालाम्बुदालिललितोरसि कैटभारेः
धाराधरे स्फुरति या तडिदङ्गनेव ।
मातुस्समस्तजगतां महनीयमूर्तिः
भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ 6॥
प्राप्तं पदं प्रथमतः खलु यत्प्रभावात्
माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।
मय्यापतेत्तदिह मन्थरमीक्षणार्धं
मन्दालसं च मकरालयकन्यकायाः ॥ 7॥
दद्याद्दयानुपवनो द्रविणाम्बुधारां
अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे ।
दुष्कर्मधर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥ 8॥
इष्टाविशिष्टमतयोऽपि यया दयार्द्र-
दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां
पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ 9॥
गीर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११॥
नमोऽस्तु नालीकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूम्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥ १२॥
सम्पत्कराणि सकलेन्द्रियनन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्वन्दनानि दुरितोद्धरणोद्यतानि
मामेव मातरनिशं कलयन्तु मान्ये ॥ 13॥
यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसंपदः ।
संतनोति वचनाङ्गमानसैः
त्वां मुरारिहृदयेश्वरीं भजे ॥ 14॥
सरसिजनिलये सरोजहस्ते
धवलतमांशुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ 15॥
दिग् हस्तिभिः कनककुंभमुखावसृष्ट-
स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।
प्रातर्नमामि जगतां जननीमशेष-
लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ 16॥
कमले कमलाक्षवल्लभे त्वं
करुणापूरतरङ्गितैरपाङ्गैः ।
अवलोकय मामकिञ्चनानां
प्रथमं पात्रमकृत्रिमं दयायाः ॥ 17॥
स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभाविताशयाः ॥ 18॥
|| इति श्रीमच्छङ्कराचार्यकृत
श्री कनकधारास्तोत्रं संपूर्णम् ॥